SHIVA CHANTS SERIES-DAY 2:

𝐔𝐌𝐀 𝐌𝐀𝐇𝐄𝐒𝐇𝐖𝐀𝐑 𝐒𝐓𝐎𝐓𝐑𝐀𝐌

Author:Adi Shankaracharya

Such was the greatness of Sri Shankar Bhagvatpada that he kept earnestly asking the Devas for the benefit of mankind. From spiritual to material, every blessing is bestowed upon....

the lowly souls as us, to alleviate our sufferings, through the works of Adi Shankara. Today, Friday being the day of Devi Maa, I hereby present the Uma Maheshwar Stotram which is a nectar of devotion to Shiv-Shakti. It is a route to ultimate marital bliss. If ever things go...
downhill, you know where to fall back for sustenance. May the divine couple bless you all in your journey through lives.

नमः पार्वतीपतये हर हर महादेव!!

English translation from Temples In India Info website.

Audio renditions from YouTube towards the end of thread.
नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्यां |
नगेन्द्रकन्यावृषकेतनाभ्यां
नमो नमः शङ्करपार्वतीभ्यां ‖ 1 ‖
नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्यां |
नारायणेनार्चितपादुकाभ्यां
नमो नमः शङ्करपार्वतीभ्यां ‖ 2 ‖
नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्यां |
विभूतिपाटीरविलेपनाभ्यां
नमो नमः शङ्करपार्वतीभ्यां ‖ 3 ‖
नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्यां |
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नमः शङ्करपार्वतीभ्यां ‖ 4 ‖
नमः शिवाभ्यां परमौषधाभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्यां |
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमो नमः शङ्करपार्वतीभ्यां ‖ 5 ‖
नमः शिवाभ्यामतिसुन्दराभ्यां
अत्यन्तमासक्तहृदम्बुजाभ्यां |
अशेषलोकैकहितङ्कराभ्यां
नमो नमः शङ्करपार्वतीभ्यां ‖ 6 ‖
नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्यां |
कैलासशैलस्थितदेवताभ्यां
नमो नमः शङ्करपार्वतीभ्यां ‖ 7 ‖
नमः शिवाभ्यामशुभापहाभ्यां
अशेषलोकैकविशेषिताभ्यां |
अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां
नमो नमः शङ्करपार्वतीभ्यां ‖ 8 ‖
नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्यां |
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमो नमः शङ्करपार्वतीभ्यां ‖ 9 ‖
नमः शिवाभ्यां जटिलन्धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्यां |
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्यां ‖ 10 ‖
नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्यां |
शोभावतीशान्तवतीश्वराभ्यां
नमो नमः शङ्करपार्वतीभ्यां ‖ 11 ‖
नमः शिवाभ्यां पशुपालकाभ्यां
जगत्रयीरक्षणबद्धहृद्भ्यां |
समस्तदेवासुरपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्यां ‖ 12 ‖
स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां
भक्त्या पठेद्द्वादशकं नरो यः |
स सर्वसौभाग्यफलानि
भुङ्क्ते शतायुरान्ते शिवलोकमेति ‖ 13 ‖
English translation:
Audio rendition 1:

Semi-classical version by Padma Vibhushan Late Pandit Jasraj.

https://t.co/SDEVbxAKBa
Audio rendition 2:

Non-classical version by G.Gayathri Devi.

https://t.co/7SkBFgeg0j
@Lokagatha_ @IyerMira

More from Religion

You May Also Like